________________
३४२
योगशास्त्रे देवलोकसमाचारं कार्यतां किं त्वसाविति ॥ ६५ ॥ तैरुक्तं कीदृगाचार इति श्रुत्वा स पूरुषः । साक्षेपमित्यभाषिष्ट किमेतदपि विस्मृतम् ॥ ६६ ॥ य इहोत्पद्यते देवः स खे सुक्तदुष्कृत। आख्याति प्राक्तने स्वर्गभोगाननुभवेत्ततः ॥ ६७ ॥ विस्मृतं स्वामिलाभेन सर्वमतप्रसीदतः । देवलोकस्थितिं देवः कार्यतामिति तेऽवदन् ॥ ६८ ॥ स रौहिणेयमित्यूचे निजे हन्त शुभाशुभे । प्राक्तने शंस नः स्वगंभोगान् भुक्ष्य ततः परम् ॥ ६८ ॥ तत: सोऽचिन्तयहस्युः किमेतत् सत्यमोदृशम् । मां ज्ञातुमभयेनैष प्रपञ्ची रचितोऽथवा ॥ ७० ॥ ज्ञेयं कथमेतदिति ध्यायता तेन संस्मृतम् । कण्टकोडरणकालाकर्णितं भगवदचः ॥ ७१ ॥ देवखरूपं श्रौवीराच्छ्रुतं चेत् संवदिष्यति । तत्सत्यं कथयिष्यामि करिष्याम्यन्यथोत्तरम् ॥ ७२ ॥ इति बुद्ध्या स तानीक्षाञ्चक्रे क्षितितलस्पृशः। प्रखेदमलिनान् म्लानमाल्यानिमिषदीक्षणान् ॥ ७३ ॥ तत्सर्व कपटं ज्ञात्वाऽचिन्तयत् दस्युरुत्तरम् । तेनोचे कथ्यतां देवलोकः सर्वोऽयमुत्सुकः ॥ ७४ ॥ रौहिणेयस्ततोऽवादोन्मया पूर्वत्र जन्मनि । अदीयत सुपात्रेभ्यो दानं चैत्यानि चक्रिरे ॥ ७५ ॥ प्रत्यष्ठाप्यन्त बिम्बानि पूजितान्यष्टधार्चया ।