________________
३४३
हितीयः प्रकाशः । विहितास्तीर्थयात्राश्च गुरवः पर्युपासिताः ॥ १६ ॥ इत्यादि सदनुष्ठानं मया लतमिति ब्रुवन् । जचे दण्डभृता शंस दुश्चरित्रमपि खकम् ॥ ७७ ॥ रोहिषयोऽप्युवाचेदं साधुसंसर्गशालिना । कदाचिदप्याचरितं किञ्चिवाशोभनं मया ॥ ७८ ॥ व्याजहार प्रतीहारो जन्म नैकस्वभावतः । याति तत्कथ्यतां चौर्यपारदारिकतादिकम् ॥ ७८ ॥ रौहिणेयोऽभ्यधत्तवं किमेवंविधचेष्टितः । खर्लोकं प्राप्नुयादन्धः किमारोहति पर्वतम् ॥ ८ ॥ गत्वा ततस्तैस्तत्सर्वमभयाय निवेदितम् । अभयेन च विजतं श्रेणिकस्य महीपतेः ॥ ८१॥ : एवंविधैरुपायर्यचौरो ज्ञातुं न शक्यत। स चौरोऽपि विमोक्तव्यः शक्या नीतिन लङ्गितम् ॥ ८२ ॥ अभयः पार्थिवादेशाद्रौहिणेयमथामुचत् । .. वञ्चान्ते वञ्चनादःर्दक्षा अपि कदाचन ॥ ८३ ॥ . ततः सोऽचिन्तयञ्चौरो धिगादेशं पितुर्मम । . वञ्चितोऽस्मि चिरं येन भगवद्दचनामृतात् ॥ ८४ ॥ नागमिष्यत् प्रभुवचो यदि मे कर्णकोटरम् । तदा विविधमारेणागमिथं यमगोचरम् ॥ ८५ ॥ अनिच्छयाऽपि हि तदा गृहीतं भगवद्वचः। मम जीवातवे जज्ञे भैषज्यमिव रोगिणः ॥ ८६ ॥ त्यवाहवचनं हा धिक् चौरवाचि रतिर्मया ।