________________
३४४
योगशास्त्रे
आम्रस्यपास्य निम्बेषु काकेनेव चिरं कृता ॥ ८७ ॥ उपदेशैकदेशोऽपि यदीयः फलतोदृशम् ।
तस्योपदेशः सामस्त्यात् सेवितः किं करिष्यति ॥ ८८ ॥ एवं विमृश्य मनसा ययौ भगवतोऽन्तिके । पादाम्बुजे च नत्वैवं रौहिणेयो व्यजिज्ञपत् ॥ ८६ ॥ भवाब्धौ प्राणिनां घोरविपत्रक्रकुलाकुले । महापोतायते ते गोरायोजनविसर्पिणी ॥ ८० ॥ निषिद्धस्त्वद्दचः श्रोतुमनाप्तेनातमानिना । इयत्कालमहं पित्रा वञ्चितस्तज्जगद्गुरोः ॥ ८१ ॥ त्रैलोक्यनाथ ते धन्याः श्रद्दधानाः पिबन्ति ये । भवद्दचनपौयूषं कर्णाञ्जलिपुटैः सदा ॥ १२ ॥ अहं तु पापोऽशश्रूषुर्भगवन् भवतो वचः । पिधाय कर्णौ हा कष्टमिदं स्थानमलङ्घयम् ॥ ८३ ॥ एकदाऽनिच्छताऽप्येकं श्रुतं युष्मद्दचो मया । तेन मन्त्राक्षरेणेव रक्षितो राजराक्षसात् ॥ ८४ ॥ यथाऽहं मरणाचातंस्तथा वायस्व नाथ माम् । संसारसागरावर्त्ते निमज्जन्तं जगत्पते ॥ ८५ ॥ ततस्तत्क्कृपया स्वामी निर्वाणपददायिनीम् । विशुद्धां विदधे साधु साधुधर्मस्य देशनाम् ॥ ८६ ॥ ततः प्रबुद्धः प्रणमन् रौहिणेयोऽब्रवीदिदम् । यतिधर्मस्य योग्योऽस्मि नवे'त्यादिश मां प्रभो ॥ ८७ ॥ क ख ग -त्यादिश्यतां ।
(1)