________________
३४०
योगशास्त्रे
अथ पप्रच्छ तं राजा कत्यः कीदृशजीविकः । कुतो हेतोरिहायातो रोहिणेयः स चासि किम् ॥ ४४ ॥ खनामशङ्कितः सोऽपि प्रत्युवाचेति भूपतिम् । शालिग्राम दुर्गचण्डाभिधानोऽहं कुटुम्बिकः ॥ ४५ ॥ प्रयोजनवशेनहायात: संजातकौतुकात्। एकदेवकुले रात्रि महतोमस्मि च स्थितः ॥ ४६ ॥ खधाम गच्छनारराक्षिप्तो राक्षसैरिव । अलवयमहं व प्राणभौमहतो हि भीः ॥ ४७॥ मध्यारक्षविनिर्यातो बाह्यारक्षगणेष्वहम् ।। कैवर्तहस्तविसस्तो जाले मत्स्य इवापतम् ॥ ४८ ॥ ततो निरपराधोऽपि बड्डा चौर इवाधुना। अहमेभिरिहानीतो नीतिसार विचारय ॥ ४८ ॥ ततस्तं भूपतिर्गुप्तौ प्रेषयामास तत्क्षणात् । तत्प्रवृत्तिज्ञानहेतोस्तत्र ग्रामे च पूरुषम् ॥ ५० ॥ सोऽग्रेऽपि ग्राहितो ग्राम: स तं तेन दस्युना । चौराणामपि केषाञ्चिच्चित्रमायतिचिन्तनम् ॥ ५१ ॥ तत्स्वरूपं राजपुंसा ग्रामः पृष्टोऽब्रवीदिदम् । दुर्गचण्डोऽत्र वास्तव्यः परं ग्रामान्तरं गतः ॥ ५२ ॥ तत्रार्थे तेन विज्ञप्ते दध्यो श्रेणिकसूरिदम् । अहो सुकतदम्भस्य ब्रह्माऽप्यन्तं न गच्छति ॥ ५३ ॥ अभयोऽसज्जयदथ प्रासादं सप्तभूमिकम् । महार्घरत्नखचितं विमानमिव नाकिनाम् ॥ ५४ ॥