SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः | मार्गेण यामस्तन्मार्गं यावत्तावत्स नेक्ष्यते । त्यक्तो ह्येकक्रमेणापि शतेन त्यज्यते क्रमैः ॥ ३३ ॥ न तं हन्तुं नवा धर्त्तुमहं शक्नोमि तस्करम् । गृहातु तदिमां देवो दाण्डपाशिकतां निजाम् ॥ ३४ ॥ नृपेणोशासितकभ्वसंज्ञया भाषितस्ततः । कुमारोऽभयकुमारस्तमूचे दाण्डपाशिकम् ॥ ३५ ॥ चतुरङ्गचमूं सज्जीक्कत्य मुच्च बहिष्पुरात् । यदान्तः प्रविशेश्चौरः पत्तनं वेष्टयेस्तदा ॥ ३६ ॥ अन्तश्च वासितो विद्युदुत्क्षिप्तकरणेन सः | पतिष्यति बहिः सैन्ये वागुरायां कुरङ्गवत् ॥ ३७ ॥ प्रतिभूभिरिवानीतो निजपादेस्ततश्च सः । ग्रहीतव्यो महान् दस्युरप्रमत्तैः पदातिभिः ॥ ३८ ॥ तथेत्यादेशमादाय निर्ययौ दाण्डपाशिकः । तथैव च चमूं सज्जां प्रच्छन्नं निर्ममे सुधीः ॥ ३८ ॥ तद्दिने रौहिणेयोऽपि ग्रामान्तरसमागमात् । अजानानः पुरीं रुद्धां वारौं गज इवाविशत् ॥ ४० ॥ तैरुपायैस्ततो धृत्वा बड्वा च स मलिम्लुचः । आनीय नृपतेर्दाण्डपाशिकेन समर्पितः ॥ ४१ ॥ यथा न्याय्यं सतां त्राणमसतां निग्रहस्तथा । निग्टह्यतामसौ तस्मादित्यादिक्षन्महीपतिः ॥ ४२ ॥ अलोप्तः प्राप्त इत्येष न हि निग्रहमर्हति । विचार्य निग्रहीतव्य इत्युवाचाभयस्ततः ॥ ४३ ॥ ३३८
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy