________________
३३८
- योगशास्त्र
एवमन्वहमप्यस्य यातायातक्कतोऽन्यदा । उपसमवसरणं पादेऽभज्यत कण्टकः ॥ २२ ॥ औत्सुक्यगमनाहाढमग्नं पादे स कण्टकम् । अनुवृत्य समुदत्तुं न शशाक क्रमात् क्रमम् ॥ २३ ॥ नास्त्युपायोऽपरः कोऽपोत्याकप्थ श्रवणात्करम् । कर्षन् कण्टकमोषीदिति विश्वगुरोगिरम् ॥ २४ ॥ महीतलास्मर्शिपादा निर्निमेषविलोचनाः । अम्बानमाल्या नि:स्खेदा नौरजोऽङ्गाः सुरा इति ॥ २५ ॥ बहुश्रुतमिदं धिग धिगित्याशूतकण्टकः। . पिधाय पाणिना कणं तथैवापससार सः ॥ २६ ॥ अथान्वहं मुष्यमाण पत्तने तेन दस्युना । उपत्य श्रेणिकं वेष्ठिश्रेष्ठा व्यापयविति ॥ २७॥ . त्वयि शासति देवान्यन्त्र भयं द्रविणं तु नः। आवष्य गृह्यते चौरैरदृष्टैश्चेटकैरिव ॥ २८ ॥ बन्धूनामिव तेषां तु गृहीत: पौडया तत: । सकोपाटोपमित्यूचे नृपतिर्दण्डपाशिकम् ॥ २८ ॥ किं चौरीभूय दायादीभूय वा मम वेतनम् । Zलासि चौरैयन्ते यदेते त्वदुपेक्षितैः ॥ ३० ॥ सोऽप्यूचे देव कोऽप्येष चौरः पौरान् विलुण्ठति । रोहिणेयाह्वयो धत्तुं दृष्टोऽपि न हि शक्यते ॥ ३१ ॥ विद्युदुत्क्षिप्तकरणेनोत्प्लुत्यायं प्लवङ्गवत् । गहाहं ततो वप्रमुल्लङ्घयति हेलया ॥ ३२ ॥