________________
हितीयः प्रकाशः । अन्यत्तु खेच्छया वत्स कुर्यास्त्वमनियन्त्रितः । उपदिश्येति पञ्चत्वं प्राप लोहखुरस्तत: ॥ १२ ॥ मृतकार्य पितुः क्त्वा रौहिणेयस्ततोऽनिशम् । चकार चौरिकां लोहखुरोऽपर इवोहतः ॥ १३ ॥ पालयन् पितुरादेशं जीवितव्यमिवात्मनः । खदासेरमिवामुष्णात् स राजगृहपत्तनम् ॥ १४ ॥ तदा च नगरपामाकरेषु विहरन् क्रमात् । चतुर्दशमहासाधुसहस्रपरिवारितः ॥ १५ ॥ सुरी संचाय॑माणेषु वर्णाम्भोजेषु चारुषु । न्यस्यन् पदानि तत्रागाहौरश्चरमतीर्थकत् ॥ १६ ॥ 'व्यन्तरैरसुरैयोतिषिकैर्वैमानिकैरपि । सुरैः समवसरणं चक्रे जिनपतेस्ततः ॥ १७ ॥ भायोजनविसर्पिण्या सर्वभाषानुयातया। भारत्या भगवान् वीरः प्रारंभे धर्मदेशनाम् ॥ १८ ॥ तदानौं रौहिणेयोऽपि गच्छन् राजगृह प्रति । मार्गान्तराले समवसरणाभ्यर्णमाययौ ॥ १८ ॥ . एवं स चिन्तयामास पथाऽनेन व्रजामि चेत् । शृणोमि वीरवचनं तदाज्ञा भज्यते पितुः ॥ २० ॥ न चान्यो विद्यते पन्या भवत्वेवं विमृश्य सः । . कर्णी पिधाय पाणिभ्यां द्रुतं राजगृहं ययौ ॥ २१ ॥
(१) ख म च ड वैमानिकैज्योतिषिय॑न्तरैरसुरैरपि ।
४३