________________
३५८
योगशास्त्रे खपतिं या परित्यज्य निस्त्रपोपपतिं भजेत् । तस्यां क्षणिकचित्तायां विश्रम्भः कोऽन्ययोषिति॥४॥
तस्यां क्षणिकचित्तायां चलितचित्तायामन्ययोषिति, को वित्रम्भः को विखासः, न कश्चिदित्यर्थः । विषम्भाधीनं च सुखं तदपि नास्तीत्यर्थः । या किं, या स्वपतिं देवतारूपं 'भर्तृदेवता हि स्त्रियः' इति श्रुतेः ; परित्यज्य पाणिग्रहीत्यपि त्यका, निस्त्रपा लज्जारहिता ; त्रपा हि भूषणं स्त्रीणाम् ; उपपतिं पत्यन्तरं, भजेत् ॥८४॥ इदानों परस्त्रीप्रसतोऽनुशिष्यते--- भौरोराकुलचित्तस्य दुःस्थितस्य परस्त्रियाम् । रतिर्न युज्यते कर्तुमुपशूनं पशोरिव ॥ ६५ ॥ परस्त्रियां रतिः प्रीतिः, कर्तुं न युज्यते, भीरोः पतिराजादिभीतस्य, अतएवाकुलचित्तस्य अनेन दृष्टोऽनेन ज्ञातोऽहमिति उपसर्पतीति व्याकुलचित्तस्य, दुःस्थितस्य खण्डदेवकुलादौ शय्यासनादिरहितस्य, कस्येव, पशोरिव वध्यस्य, उपशूनं शूनासमीपे ॥ ५ ॥ तस्मात्
प्राणसन्देहजननं परमं वैरकारणम् । लोकद्दयविरुद्धं च परस्त्रीगमनं त्यजेत् ॥ ६६ ॥ परस्त्रियां गमनं सम्भोगस्तत्त्यजेत्, प्राणानां जीवितव्यस्य,