SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः । ३५८ सन्देहो नाशशङ्का, तं जनयतीति प्राणसन्देहजननं ; 'परस्त्रीषु प्रसक्तस्य हि प्रायेण परैः प्राणा प्रणाश्यन्ते कदाचित्रेति प्राणसन्देहः, परमं प्रक्कष्टं, वैरस्य विरोधस्य, कारणम् । यदाह बहुमूलस्य मूलं हि महद्वैरतरोः स्त्रिय इति । लोकद्दयमिहलोकपरलोकलक्षणं, तस्य विरुद्धं प्राणसन्देह जननत्वाद्वैरकारणत्वाल्लोकद्दयविरुद्धत्वादिति परस्त्रीगमनत्यागे हेतुत्त्रयं विशेषणद्वारेण ॥ ८६ ॥ लोकद्दय़विरुद्धं चेति विशेषणमस्फुटं स्फुटयतिसर्वस्वहरणं बन्धं शरीरावयवच्छिदाम् । मृतश्च नरकं घोरं लभते पारदारिकः ॥ ८७ ॥ सर्वधनापहारं, रज्ज्वादिना बन्धं, शरीरावयवः पुंध्वजादिस्तस्य च्छिदां छेदं लभत इतोहलोकविरोधः । मृतश्च नरकं घोरं लभते इति परलोकविरोधः । परदारान् गच्छतीति पारदारिकः ॥ ८७ ॥ उपपत्तिपूर्वं परस्त्रीगमनप्रतिषेधमाहखंदाररक्षणे यत्नं विदधानो निरन्तरम् । जानन्नपि जनो दुःखं परदारान् कथं व्रजेत् ॥६८॥ जानन्नपि अनुभवम्नपि, दुःखं मन:पोडां, परदारप्रसङ्गे तस्य ; परदाराः परेषां दाराः परदाराः अतः स्वदारप्रसक्तेषु परेषु (१) क ग पर स्वीप्रसक्तस्य ।
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy