________________
योगशास्त्रे
दुःखमनुभवत्येव । अत्र हेतुमाह । स्वदाररक्षणे स्वकलत्ररक्षणे, यत्नमादरं, भित्तिवरण्डकप्राकारप्राहरिकादिभिर्विदधानः कुर्वन्, निरन्तरं दिवानिशं स्वदाररक्षण परिक्लेशशाली जनो जानात्येव स्वस्मिन् दुःखं इत्यात्मानुभवेन परेष्वपि दुःखं पश्यन् कथं परदारान् व्रजेत् ॥ ८८ ॥
आस्तां परस्त्रीषु रमणं रमणेच्छाऽपि महतेऽनर्थायेति श्रहविक्रमाक्रान्तविश्वोऽपि परस्त्रीषु रिरंसया ।
कृत्वा कुलक्षयं प्राप नरकं दशकन्धरः ॥ ६६ ॥ परस्त्रीविषये रमणाभावेऽपि रिरंसामात्रेण हेतुना, दशकन्धरो रावणो, नरकं प्राप इति पारलौकिकं फलम् । ऐहिकमाह । कृत्वा कुलक्षयं, यद्यपि कुलक्षयस्तस्य रामादिभिः कृतो न तेन, तथापि तदीयपरदाररिरंसा पूर्वकत्वादिभिस्तत्त्वतस्तत्कृत उच्यते । ननु पारलौकिकं फलं नरकगमनरूपमास्तां, ऐहलौकिकं तु बलवतां कुतस्त्यं भवेदित्याह । विक्रमाक्रान्तविश्वोऽपि ; न हि दशकन्धरादन्यो बलवान्, यो विक्रमेण विश्वमप्याक्रान्तवान् स्रोऽपि यद्यनर्थमश्रुते तदपरस्य का मात्रेति ॥ ८८ ॥
अयं चार्थः सम्प्रदायगम्यः, सचायम् ।—
अस्ति त्रिकूटशिरसि शिरोमणिरिव क्षितेः । रक्षोद्दीपे हिरण्याङ्गा लङ्केति प्रथिता पुरी ॥ १ ॥ विद्याधरनृपस्तस्यां पुलस्त्य कुलकौस्तुभः । अजायत महावीर्यो रावणो विश्वरावणः ॥ २ ॥
३६०
,