________________
हितीयः प्रकाशः। पभूतां भ्रातरौ तस्य निःसीमस्थाम'शोभिनौ । अपराविव दोःस्तम्भौ कुम्भकर्णबिभीषणौ ॥ ३ ॥ देवतामिव कुलस्य स्वपूर्वपुरुषार्जिताम् । गृहे नवमहारत्तस्रजं सोऽपश्यदन्यदा ॥ ४ ॥ श्रूयन्ते द्वादशादित्या नवादित्या इमे पुन: । दृश्यन्ते कथमित्येतहदान् पप्रच्छ तत्र सः ॥ ५ ॥ अथाचचक्षिरे तस्मै त्वत्पूर्वपुरुषैः पुरा । वरलब्धा महासाराऽनयेयं रत्नमालिका ॥ ६ ॥ इमां क्षिपेत यः कण्ठे स्यात्मोऽईभरतश्वरः । इत्याम्नायात्तवानाये पूज्यते पूर्वजैरसौ ॥ ७ ॥ ततस्तां सोऽक्षिपत्कण्ठे तद्रत्नेषु नवखपि । सङ्क्रान्तास्यतया चासौ दशास्य इति पप्रथे ॥ ८ ॥ ततो जनैर्जयजयेत्यारावैरभिनन्दितः । . . सोऽभान्मूत इवोसाहो जगद्दिजयहेतवे ॥ ८ ॥ तस्यानवद्या विद्यास्ता: प्रज्ञप्तीप्रमुखाः सदा । असाध्यसाधनप्रौढाः पाखें सेना इवावसन् ॥ १० ॥ ततो भरतवर्षा स एक ग्रामलीलया। दुःसाधं साधयामास दो:कडूनखपूर्यत ॥ ११ ॥ पासीदितश्च वैताब्यगिरौ विद्याधरेश्वरः । . इन्द्रनामा पूर्वजन्मानुभूतेन्द्रपदस्थितिः ॥ १२ ॥
(१) ख च शालिनौ।