________________
. योगशास्त्रे विश्वैश्वर्यबलोद्रेकादिन्द्रत्वाभ्यासतोऽपि च । इन्द्रमात्मानमेवायममंस्तेन्द्रं तु नापरम् ॥ १३ ॥ शचीति स स्वमहिषों स्वमस्त्रं वज्रमित्यपि। पट्टेभमैरावण इत्यश्वमुच्चैःश्रवा इति ॥ १४ ॥ सारथिं मातलिरिति चतुरोऽन्यान्महाभटान् । सोमो यमः पाशधरः कुबेर इति चाभ्यधात् ॥ १५ ॥ मन्यमानस्तुणायान्यानिन्द्रमन्यः स दोर्मदी। नाजीगणद्रावणमप्यत्यन्तरणदारुणम् ॥ १६ ॥ तस्मै तत: प्रकुपितः कृतान्त इव दारुणः । रावणोऽश्रावणाम्भोदगर्जगजबलोऽचलत् ॥ १७ ॥ विद्याबलाससैन्योऽपि लवयामास सोऽर्णवम् ।.. विद्याधरास्तु ल्ययाना भुव्यम्भसि नभस्यपि ॥ १८ ॥ स दिशश्छादयन् सैन्यवात्योडूतै रजश्चयैः। वैताळयं प्राप कल्पान्तमहावात इव द्रुतम् ॥ १८ ॥ श्रुत्वा रावणमायान्तमिन्द्रोऽपि द्रुतमभ्यगात् । पुंसां मैत्रयां च वैरे च संमुखोस्थानमादिमम् ॥ २० ॥ दूरादपि दशास्येन प्रहितो महितीजसा। अथ दूतोऽभ्युपेत्येन्द्रमित्युवाच ससौष्ठवम् ॥ २१ ॥ ये केचिदिह राजानो विद्यादोर्वीयदर्पिणः । तैरुपेत्योपायनाद्यैः पूजितो दशकन्धरः ॥ २२ ॥ दशकण्ठस्य विस्मृल्या भवतश्चार्जवादयम् । ध्यान् कालो ययौ तस्मिन् भक्तिकालस्तवाधुना ॥ २३ ॥