________________
प्रकाशः।
३५७
तथा
कुष्ठिनोऽपि स्मरसमान् पश्यन्तौं धनकाङ्गया। तन्वन्तौं कृत्रिमस्नेहं निःस्नेहां गणिकां त्यजेत् ॥१२॥
कुष्ठिनः कुष्ठिरोगिणोऽप्यत्यन्तमनुपादेयान्, स्मरसमान् कन्दर्पतुल्यान्, धनकाझ्या हेतुभूतया पश्यन्ती, महत्या प्रतिपत्त्या प्रतिपादयन्ती, न च स्नेहमन्तरेण कुष्ठिनोऽपि सकाशाइनावाप्तिरिति। तन्वन्ती विस्तारयन्ती, कृत्रिममुपचरितं, स्नेहं प्रेम ; परमार्थतस्तु नि:स्नेहां गणिकां वेश्या, त्यजेत् । एवं तावत्खदारसन्तुष्टस्य पण्याङ्गनागमने दोषाः प्रतिपादिताः ॥ ८२ ॥ इदानी परदारगमनदोषानाहनासक्त्या सेवनीया हि खदारा अप्युपासकैः ॥ आकरः सर्वपापानां किं पुनः परयोषितः ॥१३॥
सर्वविरतिलालसः खलु देशविरतिपरिणाम इति गार्हस्थ्येऽपि वैराग्यातिशयादुपासकैरप्रतिषिहाः खदारा अप्यासक्त्या गर्दैन न सेवनीयाः किं पुनः परयोषितस्ता अत्यन्तमसेवनौया इत्यर्थः ; यत आकरः खानिः सर्वपापानां मायामृषावादादीनाम्, हि शब्दो यस्मादर्थे, यस्मान् खदारानपि नासया सेवन्त उपासकाः ततः कथं परदारेषु प्रसजेयुरित्यर्थः ॥ ८३ ॥ परस्त्रीणां पापकारित्वमेव दर्शयति