________________
३२२
योगशास्त्रे जगाद मूलदेवस्तं ममारण्ये प्रपतुषः ।
आत्मच्छायाद्वितीयस्य दिध्या मिलितवानसि ॥ ४८ ॥ स्वच्छन्दं वार्तयिष्यावस्तदावां द्दिजसत्तम । मार्गखेदापहरणी विद्या वार्ता हि या पथि ॥ ५० ॥ दूर कियति गन्तव्यं स्थाने जिगमिषा क्व ते । कथ्यतां भो महाभाग मार्गमैत्री वशी कुरु ॥ ५१ ॥ विप्रोऽप्याख्यहमिष्यामि पारऽरण्यमिव स्थितम् । स्थानं वीरनिधानाख्यं ब्रूहि त्वं कुत्र थास्यसि ॥ ५२ ॥ मूलदेवोऽब्रवीद्यास्याम्यहं वेणातटे पुरे। . विप्रोऽप्यूचे तदेहि त्वमेकोऽध्वा दूरमावयोः ॥ ५३ ॥ ललाटन्तपतपने मध्याह्नेथ समागते । मिलिताभ्यां च गच्छद्भयां ताभ्यां प्रापि महासरः ॥ ५४ ॥ पाणिपादमुखं मूलदेवः प्रक्षाल्य वारिणा । निरन्तरतरुच्छाये भूतले समुपाविशत् ॥ ५५ ॥ स्थगिकायाः समावष्य सक्तूनालोय वारिणा । एकोऽपि भोतमारेभे टक्को रङ्क इव द्रुतम् ॥ ५६ ॥ धूर्तोऽप्यचिन्तयदसौ नाऽऽदौ मे भोजनं ददौ । अतिक्षुधाऽऽतुरो भुङ्क्ते भुक्तः सन् खलु दास्यति ॥ ५७ ॥ भुक्त्वा तत्रोत्थिते विप्रे बध्नाति स्थगिकामुखम् । दध्यौ धूर्तोऽपि यद्यद्य नादात्तच्छः प्रदास्यति ॥ ५८ ॥ तस्मिन्नदत्त्वा भुञ्जाने मूलदेवस्तदाशया । त्रीवासरानगमयन्त्रणामाशा हि जीवितम् ॥ ५८ ॥