________________
३३१
.
द्वितीयः प्रकाशः।
३२१ धनाधीनशरीरयं वेश्या तां चेद्रिरंससे । ग्रामपट्टकवद्भरिधनेन न किमग्रहीः ॥ ३८ ॥ मूलदेवोऽपि निष्पन्दस्तदा मुकुलितेक्षणः । विफलीभूतफालस्योदुवाह हौपिनस्तुलाम् ॥ ३८ ॥ एवं च चिन्तयामास सार्थवाहपतिस्ततः । न निग्राह्यो महात्माऽसौ दैवादेवं दशां गतः ॥ ४ ॥ इति चोवाच मुक्तोऽद्य त्वमस्मादागसो मया। कतज्ञोऽस्युपकर्त्तव्यं त्वयाऽपि समये मम ॥ ४१ ॥ मुक्तोऽथ तेन धूर्तेगो वेश्मतो निर्ययौ तत: । तूर्णं तूर्णं परिक्रामन् रणाद्भग्न इव हिपः ॥ ४२ ॥ गत्वा पुरीपरिसरे सत्रौ सरसि विस्तृते। . शरत्काल इव भेजे तत्क्षणात् क्षालिताम्बरः ॥ ४३ ॥ अचलस्यापकर्तु चोपकर्तुं च स धूर्तराट् । मनोरथरथारूढोऽचलहेणातटं प्रति ॥ ४४ ॥ हादशयोजनायामां स: खापदकुलाकुलाम् । दुर्दशाया: प्रियसखीमिव प्राप महाटवीम् ॥ ४५ ॥ पारावारमिवापारां तितीर्घस्तां महाटवीम् । सहायं चिन्तयामास तरण्ड मिव धूर्तराट् ॥ ४६ ॥ कस्मादप्यागतोऽकस्मादधादिव परिच्युतः । शम्बलस्थगिकां बिभ्रत्कोऽपि टक्को हिजस्तदा ॥ ४७ ॥ असहायः सहायीयं तं विप्रं क्षिप्रमागतम् । वृद्धो यष्टिमिव प्राप्य मूलदेवो मुदं ययौ ॥ ४८ ॥
४१