________________
३२०
__ योगशास्त्रे अवोचदचलो देवदत्ते स्वप्नो मयेक्षित: । पर्यङ्केऽस्मिन् कताभ्यङ्गः सचेलस्नातवानहम् ॥ २७ ॥ खप्नं सत्यापयिष्यामि तदर्थमहमागमम् । सत्यीकतो ह्ययं स्वप्रः शुभोदर्काय जायते ॥ २८ ॥ कुट्टिन्यवोचदादेश: प्रमाणं जीवितेशितुः । पुति किं न श्रुतं स्वामी यदिच्छति करोति तत् ॥ २८ ॥ देवदत्ताऽब्रवीदार्य किमेतदुचितं तव । अदृष्यदेवदूष्येयं तूलिका यहिनश्यति ॥ ३० ॥ अचलोऽप्यवदद्भद्रे कार्पण्यं किमिदं तव । शरीरमपि यच्छन्ति पत्यर्थे त्वादृशः स्त्रियः ॥ ३१ ॥ किं तेऽन्यास्तूलिका न स्युः पतिर्यस्याः किलाचलः । लवणेन स किं सौदेद्यस्य रत्नाकरः सखा ॥ ३२ ॥ ततो भाटीविवशया कारितो देवदत्तया । अभ्यङ्गोहर्तनादीनि पर्यशस्थित एव सः ॥ ३३ ॥ मप्यमाने ततस्तस्मिन्नौशे खलिजलादिना। मूलदेवश्चण्ड इव भ्रियते स्म समन्ततः ॥ ३४ ॥ आजुहावाचलभटान् कुटिनी दृष्टिसंज्ञया । निदिदेशाचलं चाशु धूर्ताकर्षणकर्मणे ॥ ३५ ॥ कोपाटोपसमाविष्टो मूलदेवं ततोऽचलः । चकर्ष धृत्वा केशेषु द्रौपदीमिव कौरव: ॥ २६ ॥ तं चोवाच नयज्ञोऽसि विहानसि सुधीरसि । कर्मणोऽस्यानुरूपोऽद्य ब्रूहि कस्तेऽस्तु निग्रहः ॥ ३७॥