________________
३१८
हितीयः प्रकाशः । ततो ग्रामान्तरगतं श्रुत्वा त्वां धूर्तपांसनः । निःशङ्ख देवदत्तायाः स समीपमुपैष्यति ॥ १६ ॥ : देवदत्तान्तिके मूलदेवे दीव्यति निर्भरम् । आगच्छे: सर्वसामग्रमा मत्स तेन सुन्दर ॥ १७ ॥ ततस्तथा कथमपि त्वमेतमवमानयेः । यथैतां न भजयस्तित्तिरीमिव तित्तिरः ॥ १८ ॥ तत्तथा प्रतिपद्याथ यास्यामि ग्राममित्यसौ। प्राख्याय देवदत्ताया द्रव्यं दत्त्वा च निर्ययौ ॥ १८ ॥ ततस्तया निरातङ्गं मूलदेवे प्रवेशिते । आह्वास्त कुटिन्यचलं कुट्टाकभटवेष्टितम् ॥ २० ॥ देवदत्ता च सहसा प्रविशन्तं ददर्श तम् । मूलदेवं च खटाऽधो न्यधात्पनकरण्डवत् ॥ २१ ॥ तथास्थितं मूलदेवं कुट्टिन्या ज्ञापितोऽचलः । पर्यते कृतपर्यको निषसाद स्मिताननः ॥ २२ ॥ अवोचदचलस्तत्र कुर्वन् कैतवनाटितम् । देवदत्ते वयं श्रान्ताः स्नास्यामः प्रगुणीभव ॥ २३ ॥ देवदत्ताऽब्रवीदेवं विलक्षवितथस्मिता। मानयोग्यासने तर्हि नातुं पादोऽवधार्यताम् ॥ २४ ॥ एवमुत्थाप्यमानोऽपि सादरं देवदत्तया। विशेषतोऽभूत् खायामचलो निश्चलासन: ॥ २५ ॥ शशाक धूर्तराजोऽपि स्थातुं गन्तुं च नो तदा । प्रायेण विगलन्त्येवावस्थे मनसि शक्तयः ॥ २६ ॥