________________
द्वितीयः प्रकाशः। अटवौं तां परित्यज्य धूर्तराजं हिजोऽवदत् । स्वस्ति तुभ्यं महाभाग यास्याम्यहमितोऽधुना ॥ ६ ॥ तमूचे मूलदेवोऽपि त्वत्साहाय्यादियं मया ।। द्वादशयोजनायामा क्रोशवल्लविताऽटवी ॥ ६१ ॥ वेणातरे गमिष्यामि मूलदेवाभिधोऽस्म्यहम् । तत्र मे कथये: कार्य कथ्यतां किं च नाम ते ॥ ६२ ॥ लोकैनिघृणशर्मेति विहितापरनामकः । विप्रोऽहं सद्दडो नामेत्यु वा टक्कस्ततो ययौ ॥ ६३ ॥ गच्छता मूलदेवेन ततो वेणातटं प्रति। दृष्टः संवसथः कश्चिद्वसदावसथः पथि ॥ ६४ ॥ प्रविष्टस्तत्र भिक्षार्थ क्षामकुक्षिर्बुभुक्षया। भ्रमत्रासादयामास कुल्माषान् कुत्रचिट्ट हे ॥ ६५ ॥ ग्रामानिष्कामतस्तस्याभिमुखः कोऽप्यभून्मुनिः । मासक्षपणपुण्यात्मा पुण्यपुञ्ज इवाङ्गवान् ॥ ६६ ॥ तं दृष्ट्वा मुदितः सोऽभूदहो मे सुक्रतोदयः । यन्मयाप्तमिदं पात्रं यानपात्रं भवोदधौ ॥ ६७ ॥ . साधोः कुल्माषदानेन रत्नत्रितयशालिनः । उन्मौलतु चिरादद्य मदिवेकतरोः फलम् ॥ ६८ ॥ कुल्माषान् साधवे दत्त्वा मूलदेवः पपाठ च । धन्यास्ते खलु येषां स्युः कुल्माषाः साधुपारण ॥ ६८ ॥ तस्य भावनया हृष्टा बभाष व्योम्नि देवता । अर्द्ध श्लोकेन याचस्व भद्र किं ते प्रदीयताम् ॥ ७० ॥