________________
३२४
योगशास्त्रे
प्रार्थयामास सद्यस्ता मूलदेवोऽपि देवताम् । गणिकादेवदत्तेभसहस्रं राज्यमस्तु मे ॥ ७१ ॥ एवम स्त्विति देव्यूचे मूलदेवोऽपि तं मुनिम् । वन्दित्वाऽथ ग्राममध्य भिक्षित्वा बुभुजे स्वयम् ॥ ७२ ॥ मार्ग कामन् क्रमेणासौ प्राप वेणातटं पुरम् । सुष्वाप पान्थशालायां निद्रामुखमवाप च ॥ ७३ ॥ यामिन्याः पश्चिमे यामे स सुप्तः स्वप्नमैक्षत । यत्पूर्ण मण्डलश्चन्द्रः प्रविवेश मुखे मम ॥ ७४ ॥ तमेव स्वप्नमद्राक्षोत्कोऽपि कार्पटिकस्तदा । अन्य कार्पटिकानां च प्रबुद्धस्तमचीकथत् ॥ ७५ ॥ तेषु कार्पटिकेष्वेकः स्वप्नमेवं व्यचारयत् । अचिरेण लप्सासे त्वं सखण्डतमण्डकम् ॥ ७६ ॥ दृष्टः कार्पटिकः सोऽभूदेवं भूयादिति ब्रुवन् । जायेत बदरेणापि शृगालस्य महोत्सवः ॥ ७७ ॥ स्वप्नं नाचीकथत्तेषामज्ञानां धूर्तराट् निजम् । मूर्खा हि दर्शिते रत्ने दृषत्खण्डं प्रचक्षते ॥ ७८ ॥ मण्डकं कर्पटिः प्राप ग्रहाच्छादनपर्वणि । प्रायेण फलति स्वप्नो विचारस्यानुसारतः ॥ ७८ ॥ धूर्तोऽपि प्रातरारामे गत्वा पुष्पोच्चयादिना । अप्रीणान्मालिकं लोकंपृणं कर्मापि तादृशाम् ॥ ८ ॥ गृहीत्वा मालिकात्तस्मात्स पुष्पाणि फलानि च । शुचिर्भूत्वा ययो वेश्म स्वप्नशास्त्र विपश्चितः ॥ ८१ ॥