________________
द्वितीयः प्रकाशः ।
३२५
मूलदेवस्ततो नत्वा दत्त्वा पुष्पफलानि च । उपाध्यायाय तजज्ञाय शशंस स्वप्नमात्मनः ॥ ८२॥ मुदित: सोऽवददिहावत्स स्वप्नफलं तव । सुमुहर्ते कथयिष्याम्यद्यास्माकं भवातिथिः ॥ ८३ ॥ मूलदेवं स्नपयित्वा भोजयित्वा च गौरवात् । . परिणाययितुं कन्यामुपाध्याय उपानयत् ॥ ८४ ॥ बभाषे मूलदेवोऽपि ताताऽज्ञातकुलस्य मे । कन्यां प्रदास्यसि कथं विचारयसि किं नहि ॥ ८५ ॥ उपाध्यायोऽप्युवाचैवं त्वन्माऽपि कुलं गुणाः । ज्ञातास्तत्सर्वथा कन्या ममेयं परिणीयताम् ॥ ८६ ॥ तहाचा मूलदेवोऽपि कन्यकां तामुपायत । कार्यसिडेभविष्यन्त्याः प्रादुर्भूतमिवाननम् ॥ ८७ ॥ — मध्ये दिनानां सप्तानां त्वं राजेह भविष्यसि । इति तस्य स्वप्नफलमुपाध्यायो न्यवेदयत् ॥ ८८ ॥ हृष्टस्तत्र वसन् धूर्तराजो गत्वा बहिः पुरात् । सुष्वाप चम्पकतले संप्राप्त पञ्चमेऽहनि ॥ ८ ॥ तदा च नगरे तस्मिन्नग्रेतनमहीपतिः । अपुत्रो निधनं प्राप निष्पाद इव पादपः ॥ ८ ॥ मन्त्रीक्षिताः पुरीभावच्छत्रभृङ्गारचामराः । भ्रमः प्रापुर्न राज्याहं दुष्यापस्तादृशो जनः ॥ ८१ ॥ ततो बहिः पर्यटन्तो निकषा चम्प कद्रुमम् । अपश्यन्मूलदेवं ते नरदेवपदोचितम् ॥ १२ ॥ हयेन हेषितं चक्रे गजेनोर्जितगर्जितम् ।