________________
योगशास्त्र भृङ्गारेण च तस्याऽर्घश्चामराभ्यां च वीजनम् ॥ २३ ॥ पुण्डरीकं स्वर्णदण्डमण्डितं तस्य चोपरि । शरदभ्रमिवादभ्रतडिद्दण्डमजृम्भत ॥ ८४ ॥ तं चाधिरोहयामास स्वस्कन्धे जयकुञ्जरः । खाम्याप्तिमुदितैलॊकैश्चक्रे जयजयारवः ॥ ८५ ॥ पुरं महातूर्यरवैः पूर्यमाणदिगन्तरम् । तप्राविशन्मूलदेवो राजराज इवालकाम् ॥ ८६ ॥ उत्तीर्णो राजहयेऽसौ सिंहासनमधिष्ठितः । समन्ततः समायातः सामन्तैरभ्यषियत ॥ ८७ ॥ अथो वे देवता व्योम्नि देवतानां प्रसादतः । अयं विक्रमराजाख्यो राजा जज्ञे कलानिधिः ॥ ८ ॥ वर्तिष्यन्ते न येऽमुष्य शासने क्षितिग्रासितुः । तानहं निग्रहीष्यामि महीभृत इवाशनिः ॥ ८ ॥ तगिरा विस्मितं भीतं सर्व प्रकृतिमण्डलम् । यतेरिवेन्द्रियग्रामः सदा तस्य वशेऽभवत् ॥ २०० ॥ ततः स राजा विषयसुखान्यनुभवन् व्यधात् ॥ प्रीतिमुज्जयिनौशेन मिथ: संव्यवहारतः ॥ १ ॥ तदानी देवदत्ताऽपि मूलदेवविडम्बनाम् । ताक्षी प्रेक्ष्य साक्षेपा व्यब्रवोदचलं प्रति ॥ २ ॥ किं ज्ञाता द्रव्यदर्पान्ध त्वया कुलहिण्यहम् । मुमूर्षो 'मूर्ख महेहे व्यवाहार्षीयंदीदृशम् ॥ ३ ॥
(१) क छ मूर्खबहे ।