________________
द्वितीयः प्रकाशः। त्वयाऽस्मदीयसदने नागन्तव्यमतः परम् । इति निष्कास्य तं गेहात्समीपे नृपतेरगात् ॥ ४ ॥ तया च याचितो राजा स वरो दीयतामिति । यथेच्छं ब्रूहि यच्छामि तं येनत्यवदनृपः ॥ ५ ॥ सोचे मां प्रति नाज्ञाप्यो मूलदेवं विना पुमान् । वारणीयोऽचन्लश्चायमागच्छन्मम वेश्मनि ॥ ६ ॥ एवमस्त्विति राज्ञोक्ता हेतुः कोऽत्रेति पृष्टवान् । शशंस माधवी देवदत्ताभूसंज्ञया ततः ॥ ७ ॥ जितशत्रुनृपः कोपाञ्चलितधूलतस्ततः । सार्थवाहं तमाइय साक्षेपमिदमब्रवीत् ॥ ८॥ मत्युरीमण्डनावेतौ रत्नभूतावरे त्वया - ... मूर्खेण धनमत्तेन ग्रावणीव निर्षितौ ॥ ८॥ ततोऽमुष्थापराधस्य प्राणापहरणं तव । दण्डोऽस्त्विति नरेन्द्रीत देवदत्ता न्यवारयत् ॥ १० ॥ त्वं यद्यप्यनया नातोऽधुना वाणं तथापि ते । मूलदेवे समानीते भवेदित्यभ्यधावृपः ॥ ११ ॥ नृपं नत्वा ततो गत्वा सार्थवाहः प्रचक्रमे । नष्टरत्नमिवान्वेष्टुं मूलदेवं समन्ततः ॥ १२ ॥ मूलदेवमपश्यन् स भीतो न्यूनतया तया । भाण्डं भृत्वा ययौ शीघ्रं पारसकूलमण्डलम् ॥ १३ ॥ दध्यौ च मूलदेवोऽपि विना मे देवदत्तया । भोज्येनालवणेनेव प्राज्यराज्यश्रियाऽपि किम् ॥ १४ ॥