________________
३२८
योगशास्त्रे ततः स देवदत्ताया जितशत्रीश्च भूपतेः । चतुरं प्रेषयामास दूतं प्राभृतसंयुतम् ॥ १५ ॥ गत्वोज्जयिन्यां दूतोऽपि जितशत्रु व्यजिज्ञपत् । देवतादत्तराज्यश्रीर्मूलदेवो वदत्यदः ॥ १६ ॥ यथा मे देवदत्तायां प्रेम जानीथ तत्तथा । यद्यस्यै रोचते वोऽपि तदियं प्रेष्यतामिति ॥ १७ ॥ ततोऽवददवन्तौशस्तेनेदं कियदर्थितम् । राजा विक्रमराजेन भेदो राज्येऽपि नास्ति नः ॥ १८ ॥ आकार्य देवदत्तां च जगादोज्जयिनीपतिः । . दिल्या जाताऽसि भद्रे त्वं चिरात् पूर्णमनोरथा ॥ १८ ॥ राजा जज्ञे मूलदेवो देवतायाः प्रसादतः । त्वामानेतुं च स प्रेषीप्रधानपुरुषं निजम् ॥ २० ॥ ततस्त्वं तत्र गच्छेति प्रसादाज्जितशत्रुणा। आदिष्टा देवदत्ताऽगाद्देणातटपुरं क्रमात् ॥ २१ ॥ राजा विक्रमराजोऽपि महोत्सवपुर:सरम् ।। खचेतसीव विपुले खवेश्मनि निनाय ताम् ॥ २२ ॥ जिना मर्चतस्तस्य सम्यक् पालयतः प्रजाः । दीव्यतो देवदत्तां च त्रिवर्गोऽभूदबाधितः ॥ २३ ॥ इतश्च पारसकूलाइह्वात्तकेयवस्तुकः । आययावचलस्तत्र जलपूर्ण इवाम्बुदः ॥ २४ ॥ लक्ष्मीमहत्वपिशुनैर्मणिमौक्तिकविद्रुमैः ।। भृत्वा विशाल स स्थालं महीनाथमुपास्थितः ॥ २५ ॥