________________
हितीयः प्रकाशः ।
'२५७
घातिकम्मक्षयात्प्राप्य केवलज्ञानमुत्तमम् । भवोपग्राहिकर्माणि हत्वा प्राप. परं पदम् ॥ ७६ ॥ ब्रह्मदत्तोऽपि संसारसुखानुभवलालसः । सप्तातिवाहयामास शतानि शरदा क्रमात् ॥ ७७ ॥ कदाचित्प्राक्परिचितो हिजः कश्चिज्जगाद तम् । चक्रवर्तिन् स्वयं मुझे यत्तन्मे देहि भोजनम् ॥ ७८ ॥ ब्रह्मदत्तोऽप्यवोचत्तं मदन हिज दुर्जरम् । चिरेण जीर्यमाणं तु महोन्मादाय जायते ॥ ७९ ॥ कदर्योऽस्यवदानेऽपि धित्वामिति वदन् दिजः । अभोजि सकुटुम्बोऽपि भूभुजा भोजनं निजम् ॥ ८० ॥ निशायामथ विप्रस्य बोजादिव तदोदनात् । शतशाखः सारोन्मादतरुः प्रादुरभूदृशम् ॥ ८१ ॥ अन्नातजननीजामिस्नुषाव्यतिकरं मिथः । पशवत्महपुत्रोऽपि विप्रः प्रववृते रते ॥ २ ॥ ततो विराम यामिन्या हिजो ग्रहजनश्च सः । गिया दर्शयितुं स्वास्यमन्योऽन्यमपि नाशकत् ॥ ८३ करेणानन रानाऽस्मि सकुटुम्बो विडम्बितः । चिन्तयनित्यमर्षेण नगराविरगाहिजः ॥ ८४ ॥ दूरादश्वस्थपत्राणि काणयन् शर्कराकणैः । तेन कश्चिदजापालो ददृशे भ्रमता बहिः ॥ ८५ ॥ मदरसाधनायालमसाविति विमृश्य सः । तं मूल्येनेव सत्कारेणादायैवमवोचत ॥ ८६ ॥
३३
.