________________
योगशास्त्रे शरीरं यौवनं लक्ष्मीः स्वाम्यं मित्राणि बान्धवः । सर्वमप्यनिलोडूतपताकाञ्चलचञ्चलम् ॥ ६५ ॥ बहिरङ्गान् द्विषोऽजैषीर्य्यथा साधयितुं महीम् । अन्तरङ्गान् जय तथा मोक्षसाधनहेतवे ॥ ६६ ॥ ग्रहाण यतिधर्म तत्पृथक्कृत्य त्यजापरम् । राजहंसो हि गृह्णाति विभज्य क्षीरमभसः ॥ ६७ ॥ ब्रह्मदत्तस्ततोऽवादीद दिघ्या दृष्टोऽसि बान्धव । इयं तवैव राज्यश्री च भोगान् यथारुचि ॥ ६८ ॥ सपसो हि फलं भोगाः सन्ति ते किं तपस्यसि । उपक्रमेत को नाम स्वतः सिद्धे प्रयोजने ॥ ६८ ॥ मुनिरूचे ममाप्यासन् धनदस्येव सम्पदः । मया तास्तुणवत्त्यता भवभ्रमणभोरुणा ॥ ७० ॥ सौधर्मात्क्षोणपुण्योऽस्मिन्बागतोऽसि महोतले । इतोऽपि क्षीणपुण्यः सन् राजन्मा गा अधोगतिम् ॥ ७१ ॥ आयें देश कुले श्रेष्ठे मानुष्यं प्राप्य मोक्षदम् । साधयस्यमुना भोगान् सुधया पायुशौचवत् ॥ ७२ ॥ स्वर्गाच्चुत्वा क्षीणपुण्यौ भ्रान्तावावां कुयोनिषु । यथा तथा स्मरन् राजन् किं बाल इव मुह्यसि ॥ ७३ ॥ तेनैवं बोध्यमानोऽपि नाबुद्ध वसुधाधवः । कुतः कतनिदानानां बोधिबीजसमागमः ॥ ७४ ॥ तमबोध्यतमं बुड्डा जगाम मुनिरन्यतः । कालादिष्टाहिना दष्टे कियत्तिष्ठन्ति मान्त्रिकाः ॥ ७५ ॥