________________
२५८
योगशास्त्रे
राजमार्गे गजारूढो यः खेतच्छत्रचामरः । याति कथ्थे दृशौ तस्य त्वया प्रक्षिप्य गोलिके ॥ ८७ ॥ विप्रवाचमजापालः प्रतिपदे तथैव ताम् । पशुवत्पशुपाला हि न विमृश्य विधायिनः ॥ ८८ ॥ सोऽथ कुड्यान्तरे स्थित्वा समं प्रक्षिप्य गोलिके।' 'प्रास्फोटयद् दृशौ राज्ञो नाज्ञा लङ्घया विधेः खलु ॥८॥ सोऽङ्गरक्षरजापाल: प्राप्त श्येनैरिव हिकः । हन्यमानस्तमेवाख्यहि विप्रियकारकम् ॥ ४० ॥ तच्छ्रुत्वा पार्थिवोऽवोचडिग् धिग् जातिर्हिजन्मनाम् । यत्रैते भुञ्जते पापास्तत्र भञ्जन्ति भाजनम् ॥ ८१ ॥ यः स्वामीयति दातारं दत्तं तस्मै वरं शुने । न जातु दातुमुचितं कृतघ्नानां हिजन्मनाम् ॥ २२ ॥ वञ्चकानां वृशंसानां खापदानां पलादिनाम् । सृष्टिं हिजानां योऽकार्षीविग्राह्य : प्रथमं हि सः ॥ ८३ ॥ इति जल्पननल्पात् पृथ्वोपतिरघातयत् । सपुत्वबन्धुमित्रं तं विप्रं मशकमुष्टिवत् ॥ ८४ ॥ दृशोरन्धीकृतस्तेन हृदयेऽन्धीकृत: क्रुधा । विप्रान् सोऽघातयत् सर्वान् पुरोधःप्रभृतीनपि ॥ १५ ॥
(१) खच छ अस्फोटयत् । (२) खचड प्राप्तः ।