________________
हितीयः प्रकाशः ।
२५८
२५८
सोऽमात्यमादिदेशैवं नेत्ररेषां दिजन्मनाम् । विशालं स्थालमापूर्य निधेहि पुरतो मम ॥ ८६ ॥ रोट्रमध्यवसायं तं राज्ञो विज्ञाय मन्त्रापि । श्लेभातकफलैः स्थालं पूरयित्वा पुरो न्यधात् ॥ ८७ ॥ मुमुदे ब्रह्मदत्तोऽपि पाणिना संस्पृशम्मुहुः । विप्राणां लोचनैः स्थालं साधु पूर्णमिति ब्रुवन् ॥ ८८ ॥ स्पर्श स्त्रीरत्वरूपायाः पुष्यवत्वास्तथा नहि । यथाऽऽसोब्रह्मदत्तस्य तत्स्थालस्पर्शने रतिः ॥ ८ ॥ त कदाचन स स्थालमपसारयदग्रतः । दुम्मदी मदिरापात्रमिव दुर्गतिकारणम् ॥ ५०० ॥ विप्रनेत्रधियाऽमृङ्गात् श्लेभातकफलानि सः । फलाभिमुखपापद्रोः सज्जयन्निव दोहदम् ॥ १ ॥ तस्यानिवर्त्तको रोट्राध्यवसायोऽत्यवईत । अशुभं वा शुभं वाऽपि सर्व हि महतां महत् ॥ २ ॥ तस्यैवं वसुधेशस्य रोद्रध्यानानुबन्धिनः । पापपशवराहस्य ययुर्वर्षाणि षोडश ॥ ३ ॥ यातमु षोडशयुतेषु समाशतेषु सप्तखसी क्षितिपतिः परिपूरितायुः । हिंसाऽनुबन्धिपरिणामफलातुरूपां तां सप्तमी नरकलोकभुवं जगाम ॥ ५०४ ॥ २७ ॥
॥ इति ब्रह्मदत्तचक्रवर्त्तिकथानकम् ॥