________________
योगशास्त्रे · पुनरपि हिंसकाविन्दति ।
कुणिर्वरं वरं पङ्गुरशरीरी वरं पुमान् । अपि सम्पूर्णसर्वाङ्गो न तु हिंसापरायण: ॥ २८ ॥
कुणिर्विकलपाणि: वरमिति मनागिष्टे मन्तमव्ययं पङ्गः पादविकल: कुत्सितं शरीरमशरीरं नञः कुत्मार्थत्वात् तडिद्यते यस्य सोऽशरीरी कुष्ठी विकलाङ्गः कुणिपङ्गुकुष्ठिनस्ते हि विकलाङ्गत्वादेव हिंसामकुर्वन्तो मनाक् श्रेष्ठाः सम्पूर्ण सर्वाङ्गोऽपि क्कतपरिकरबन्धं हिंसापरायण: पुमानतु श्रेष्ठः । ननु रौद्रध्यानपरायणस्य या हिंसा सा नरकहेतुत्वान्विन्द्याऽस्तु या तु शान्तिकनिमित्तं प्रायश्चित्तभूता हिंसा या वा कुलक्रमायाता मत्स्यबन्धानामिव सा रौद्रध्यानरहितत्वान्न दोषायेत्याह ॥ २८ ॥
हिंसा विघ्नाय जायेत विघ्नशान्त्यै कृताऽपि हि । कुलाचारधियाऽप्येषा कृता कुलविनाशनी ॥ २६ ॥
रौद्रध्यानमन्तरेणाप्यविवेकालोभाद्दा या शान्तिनिमित्तं कुलक्रमाद्दा हिंसा सा न केवलं पापहेतुः प्रत्युत विघ्नशान्तिनिमित्तं क्रियमाणा समरादित्य कथोक्तस्य यशोधरजीवस्य सुरेन्द्रदत्तस्येव पिष्टमयकुक्कुटवधरूपा विघ्नाय जायेत कल्पेत अस्मत्कुलाचारोऽयमिति बुद्याऽपि कृता हिंसा कुलमेव विनाश यति ॥ २८ ॥