SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः । इदानी कुलक्रमायातामपि हिंसां परिहरन् पुमान् प्रशस्य एवेत्याह। अपि वंशक्रमायातां यस्तु हिंसां परित्यजेत् । स श्रेष्ठः सुलस व कालसौकरिकात्मजः ॥ ३० ॥ वंश: कुलं कुलक्रमायातामपि हिंसां य: 'परिहरेत् स श्रेष्ठः प्रशस्य तमः मुलस इव तस्य विशेषणं कालसौकरिकात्मजः कालसौकरिको नाम सौनिकस्तस्यात्मजः पुत्रः । यदाह अवि इच्छन्ति य मरणं न य परपीडं कुणन्ति मणसा वि । जे सुविइअसुगइपहा सोयरिपो जहा मुलसो॥ सुलसकथानकं सम्प्रदायगम्यम् । सचायं महर्दि मगधष्वस्ति पुरं राजग्रहाभिधम् । तत्र श्रीवीरपादाअभृङ्गोऽभूच्छणिको नृपः ॥ १ ॥ तस्य प्रियतमे नन्दाचिलणे शीलभूषण । अभूतां देवकोरोहिण्याविवानकदुन्दुभैः ॥ २॥ नन्दायां नन्दनो विखकुमुदानन्दचन्द्रमाः । नामाऽभयकुमारोऽभूदुभयान्वयभूषणः ॥ ३ ॥ (१) ख परित्यजेत् । (२) अपि इच्छन्ति च मरणं न च परपोडां कुर्वन्ति मनसापि । ये सविहितसुगतिपथाः सौकरिक सुतो यथा सुलमः ॥ १ ॥
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy