________________
हितीयः प्रकाशः ।
एवं कुर्विति तेनोक्ता जित्वा परतस्ततः । सा साक्षादिव सौमित्रिः सिंहनादं विनिर्ममे ॥ ७ ॥ तं श्रुत्वा मैथिलों तत्र मुक्ता रामो ययौ द्रुतम् । महतामपि मोहाय भवेन्माया हि मायिनाम् ॥ ८॥ प्रथोत्तीर्य दशग्रीवः सौतामारोप्य पुष्पके। त्वां हरन् रावणोऽस्मीति कथयन्नभसा ययौ ॥ ८ ॥ हा नाथ विद्विषन्माथ राम हा वत्स लक्ष्मण । हा तातपाद हा भ्रातर्भामण्डल महाभुज ॥ १० ॥ सौता वो जियतेऽनेन काकेनेव बलि'ग्छलात् । एवं सौता रुरोदोच्चै रोदयन्तीव रोदसीम् ॥ ११ ॥ मा भैषीः पुत्रि मा भैषीः करे यासि निशाचर । रोषादिति वदन् दूराज्जटायुस्तमधावत ॥ १२ ॥ भामण्डलानुगश्चैकः कोऽपि विद्याधराग्रणीः । डुढौके दशकण्ठं रे तिष्ठ तिष्ठेति तर्जयन् ॥ १३ ॥ जटायुर्विकटाटोप करजनोटिकोटिभिः । 'प्रणिहन्तुं दशग्रीवोरसि प्रववृते ततः ॥ १४ ॥ रे जीवितस्य तृप्तोऽसि जर ति विब्रुवन् । दशास्त्रश्चन्द्रहासासिमाक्वष्य निजधान तम् ॥ १५ ॥
(१) क ख ग च -छ । (२) चड -नखर-1 (१) खच प्रतिहन्तुं ।