________________
३७२
योगशास्त्रे
तस्य विद्याधरस्यापि विद्यां दशमुखोऽहरत् । निकृत्तपक्षः पक्षीव सोऽपविद्योऽपतद्भुवि ॥ १६ ॥ रावणोऽगात्ततो लङ्कां सीतां चोपवनेऽमुचत् । तां प्रलोभयितुं तत्र त्रिजटामादिदेश च ॥ १७ ॥ रामस्यापि हतामित्रः सौमित्रिः संमुखोऽभवत् । आर्यामार्य ! विमुच्चैकां किमागा इति चाब्रवीत् ॥ १८ ॥ आहूतः सिंहनादेन तव वैधुर्यलक्ष्मणा ।
लक्ष्मणाऽहमिहायातो व्याजहारेति राघवः ॥ १८ ॥ लक्ष्मणोऽप्यवदच्चक्रे सिंहनादो मया नहि ।
श्रुतश्चार्येण तन्नूनं वयं केनापि वञ्चिताः ॥ २० ॥ अपनेतुं सत्यमार्यामपनीतोऽस्युपायतः । सिंहनादस्य करणे शङ्के स्तोकं न कारणम् ॥ २१ ॥ ब्रुवन् साध्विति रामोऽपि स्वस्थानेऽगात्सलक्ष्मणः । सोतामपश्यन् क्कासीति विलपन्नमूर्च्छितोऽपतत् ॥ २२ ॥ तं लब्धसंज्ञं सौमित्रिरित्यूचे रुदितैरलम् । पौरुषं पुरुषाणां हि व्यसनेषु प्रतिक्रिया ॥ २३ ॥ अत्रान्तरे पुमानेकः कश्चिदेत्य ननाम तौ । ताभ्यां पृष्टः खवृत्तान्तमेवं व्यज्ञपयच्च सः ॥ ५४ ॥ हत्वा पाताललङ्केशं तातं चन्द्रोदरं मम । अश्वस्येव पदे तस्य खरं खररथोऽकरोत् ॥ २५ ॥ गुर्वी च नष्टा मन्माता विराधं नाम मां सुतम् । अन्यत्त्रासूत तस्याश्च कश्चिदाख्यदिदं मुनिः ॥ २६ ॥