________________
हितीयः प्रकाशः ।
३७३ यदा दाशरथिहन्ता खरादींस्त्वत्सुतं तदा। पाताललङ्काधिपतिं करिष्यति न संशयः ॥ २७ ॥ तदद्य समयं लब्धा युष्मानस्मि समाश्रितः । पिटवैरिवधक्रीतं पत्तिं जानीथ मां निजम् ॥ २८ ॥ रामस्ततोऽदात्पाताललङ्कां तस्मै महाभुजः । फलन्ति समयज्ञानां स्वामिन: स्वयमेव हि ॥ २८ ॥ तं च स्थापयितुं तत्र गच्छन् राम: सलक्ष्मणः ।। हृतविद्यं पुरोऽपश्यद्भस्थं भामण्डलानुगम् ॥ ३० ॥ अथ दाशरथौ नत्वा स्ववृत्तान्तं व्यजिन्नपत् । आत्मनश्च जटायोश्च सौताया रावणस्य च ॥ ३१ ॥ अथ पाताललङ्कायां ययौ रामः सलक्ष्मणः। . सत्यसन्धो विराधं च पित्रे राज्ये न्यवेशयत् ॥ ३२ ॥ इतश्च साहसगतिर्नाम विद्याधराग्रणीः । खे भ्रमनधिकिष्किन्धाधित्यक समुपाययौ ॥ ३३ ॥ ययौ तदा च किष्किन्धाधिपतिः क्रीडितुं बहिः । सुग्रोवः सपरीवारो राज्ञां हि स्थितिरीटशी ॥ ३४ ॥ ददर्श साहसगतिस्तदा चान्तःपुरस्थिताम् । । सुग्रीवस्य प्रियां नाम्ना तारां तारविलोचनाम् ॥ ३५ ॥ तस्यां लावण्यकूलिन्यां स चिक्री डिषुरुच्चकैः । इयेष नान्यतो गन्तुं धर्मात इव कुञ्जरः ॥ ३६ ॥ सोऽस्थात्तथैव तत्रैव निषिद्धगमन: क्षणात् । . तां मूर्त्तामिव कामाज्ञामुल्लङ्घयितुमक्षमः ॥ ३७॥