________________
३७४
योगशास्त्रे रमणी रमणीयेयं रमणीया मया कथम् । इतीच्छाव्याकुल: 'सोऽप्युपायं क्षणमचिन्तयत् ॥ ३८ ॥ सहसा साहसगतिस्ततः सुग्रीवरूपताम् । स कुशीलवकुशल: कुशीलव इवाददे ॥ ३८ ॥ . अथासौ विटसुग्रीवः सुग्रीव इति मानिभिः । अङ्गरक्षरस्खलितः सुग्रीवभवनेऽविशत् ॥ ४० ॥ अन्तःपुरग्रहदारं स ययौ यावदुत्सुकः। . तावद्याघुट्य सुग्रीवः स्ववेश्मदारमाययौ ॥ ४१ ॥ सुग्रीवस्य प्रवेष्टुं न हारं प्राहरिका ददुः। . अग्रे प्रविष्टो राजाऽस्ति त्वमन्योऽसीति वादिनः ॥ ४२ ॥ ततश्च सत्य सुग्रीव स्वल्यमाने खवेत्रिभिः । अतुलस्तुमुलो जज्ञे मथ्यमान इवार्णवे ॥ ४३ ॥ सुग्रीवहितयं दृष्ट्वा सन्देहाहालिनन्दनः । शुद्धान्तविप्लवं वातुं तद्दारं त्वरितो ययौ ॥ ४४ ॥ शुद्धान्ते विटसुग्रीवः प्रविशन् वालिसूनुना। मार्गाद्रिणा सरित्यूर इव प्रसवलितस्ततः ॥ ४५ ॥ अथामिलन् सैनिकानामक्षौहिण्यश्चतुर्दश । चतुर्दशजगत्सारसर्वखानीव सर्वतः ॥ ४६ ॥ हयोरपि तयोर्भेदमजानन्तोऽथ सैनिकाः । सत्यसुग्रीवतोऽऽर्दै विटसुग्रीवतोऽभवन् ॥ ४७ ॥ ततः प्रववृते युद्ध सैन्ययोरुभयोरपि ।
(१) क ख ग घ ड कामं सोऽभ्युपायमचिन्तयत् ।