SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ३०० योगशास्त्रे देवताभिरसत्योक्तिकुपिताभिर्निपातितः । जगाम घोरं नरकं नरनाथो वसुस्ततः ॥ ६८ ॥ यो यः सूनुरुपाविचद्राज्ये तस्यापराधिनः । प्रजघ्नुर्देवतास्तं तं यावदष्टौ निपातिताः ॥ ७० ॥ इति वसुनृपतेरसत्यवाचः फलमाकर्ण्य जिनोक्तिविद्धकर्णः । कथमप्युपरोधतोऽपि जल्पे दनृतं प्राणितसंशयेऽपि नैव ॥ ७१ ॥ ६० ॥ ॥ इति नारदपर्वतकथानकम् ॥ सङ्ख्यो हितं सत्यमिति व्युत्पत्त्या अवितथमपि परपीडाकरं वचनमसत्यमेवाहितत्वादिति सत्यमपोदृशं न भाषेतेत्याह न सत्यमपि भाषेत परपीडाकरं वचः । लोकेऽपि श्रूयते यस्मात् कौशिको नरकं गतः ॥ ६१॥ सत्यमवितथं लोकरूढ्या परमार्थतस्तु परपीडाकरत्वादसत्यमेवेत्यर्थः, तन्न भाषेत ; तद्भाषणान्नरकगमनश्रुतेः । अत्रार्थे लौकिकं दृष्टान्तमाह लोकेऽपि समयान्तरेऽपि श्रूयते निशम्यते परपीडाकरसत्यभाषणेन कौशिको नरकं गत इति । कौशिकस्तु संप्रदायगम्य: ; स चायम् -
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy