________________
द्वितीयः प्रकाशः।
२८८
ततः प्रमुदिता क्षीरकदम्बग्रहिणी ययौ। आजग्मतुश्च विद्वांसो तत्र नारदपर्वतो॥ ५८ ॥ सभायाममिलन सभ्या माध्यस्थ्यगुणशालिनः । वादिनोः सदसहादक्षीरनीरसितच्छदाः ॥ ५८ ॥ आकाशस्फटिकशिलावेदिसिंहासनं वसुः । सभापतिरलञ्चक्रे नभस्तलमिवोडुपः ॥ ६ ॥ ततो निजनिजव्याख्यापक्ष नारदपर्वतौ । कथयामासतू राजे सत्यं ब्रूहीति भाषिणौ ॥ ६१ ॥ विप्रबैरथोचे स विवादस्त्वयि तिष्ठते। प्रमाणमनयोः साक्षी त्वं रोदस्थोरिवार्यमा ॥ ६२ ॥ घटप्रभृतिदिव्यानि वर्तन्ते हन्त सत्यतः । सत्याइर्षति पर्जन्यः सत्यासियन्ति देवताः ॥ ६३ ॥ त्वयैव सत्ये लोकोऽयं स्थाप्यते पृथिवीपते । त्वामिहार्थे ब्रूम है किं ब्रूहि सत्यव्रतोचितम् ॥ ६४ ॥ वचोऽश्रुत्वैव तत्सत्यप्रसिद्धिं स्वां निरस्य च।। अजान्मेषान् गुराख्यदिति साक्ष्यं वसुर्व्यधात् ॥ ६५ ॥ असत्यवचसा तस्य क्रुडास्तत्रैव देवताः । दलयामासुराकाशस्फटिकासनवेदिकाम् ॥ ६६ ॥ वसुर्वसुमतीनाथस्ततो वसुमतीतले । पपात सद्यो नरकपातं प्रस्तावयन्त्रिव ॥ ६ ॥ कूटसाक्ष्यं प्रदातस्ते खपचस्येव को मुखम् । पश्येदिति वसुं निन्दबारदः स्वास्पदं ययौ ॥ ६८ ॥ .