________________
२८८
योगशास्त्रे
साऽथ पर्वतकापायपीडया हृदि शल्यिता । वसुराजमुपेयाय पुत्रार्थे क्रियते न किम् ॥ ४८ ॥ दृष्टः क्षीरकदम्बोऽद्य यदम्ब त्वमसोक्षिता । किं करोमि प्रयच्छामि किं चेत्यभिदधे वसुः ॥ ४८ । साऽवादीद्दीयतां पुत्रभिक्षा मह्यं महीपते ।। धनधान्यैः किमन्यै विना पुत्रेण पुत्रक ॥ ५० ॥ वसुरूचे मम मातः पाल्यः पूज्यश्च पर्वतः । गुरुवहुरुपुत्रेऽपि वर्तितव्यमिति श्रुतेः ॥ ५१ ॥ कस्याद्य पत्रमुत्क्षिप्तं कालेनाकालरोषिणा। को जिघांसुर्धातरं मे ब्रूहि मातः किमातुरा ॥ ५२ ॥ अजव्याख्यानवृत्तान्तं स्वपुत्रस्य पणं च तम् । त्वं प्रमाणीकृतश्वासोत्याख्यायार्थयते स्म सा ॥ ५३ ॥ कुर्वाणो रक्षणं भातुरजान्मेषानुदीरय । प्राणैरप्युपकुर्वन्ति महान्तः किं पुनर्गिरा ॥ ५४ ॥ अवोचत वसुर्मातर्मिथ्या वच्मि वचः कथम् । प्राणात्ययेऽपि शंसन्ति नासत्यं सत्यभाषिणः ॥ ५५ ॥ अन्यदप्यभिधातव्यं नासत्यं पापभीरुणा । गुरुवागन्यथाकारे कूटसाक्ष्ये च का कथा ॥ ५६ ॥ वधं कुरु गुरोः सूनुं यहा सत्यव्रताग्रहम् । तया सरोषमित्युक्तस्तद्दचोऽमस्त पार्थिवः ॥ ५७ ॥
(१) च ड श्रुतिः ।
(१)
ख ग च छ ड बहू कुरु ।