________________
द्वितीयः प्रकाशः ।
२८७
त्रिवार्षिकाणि धान्यानि न हि जायन्त इत्यजाः । व्याख्याता गुरुणाऽस्माकं व्यस्मार्षीः केन हेतुना ॥ ३८ ॥ ततः पर्वतकोऽवादोदिदं तातेन नोदितम् । . उदिताः किं त्वजा मेषास्तथैवोक्ता निघण्टुषु ॥ ३८ ॥ जगाद नारदोऽप्येवं शब्दानामर्थकल्पना । मुख्या गौणी च तत्रह गौणों गुरुरचौकथत् ॥ ४० ॥ गुरुचर्मोपदेष्टैव श्रुतिईर्मास्मिकैव च। हयमप्यन्यथाकुर्वन्मित्र मा पापमर्जय ॥ ४१ ॥ साक्षेपं पर्वतोऽजल्पदजान्मेषान् गुरुजंगी। गुरूपदेशशब्दार्थोल्लङ्घनाद्धर्ममर्जसि ॥ ४२ ॥ मिथ्याभिमानवाचो हि न स्युर्दण्डभयावृणाम् । स्वयक्षस्थापने तेन जिह्वाच्छेदः पणोऽस्तु नः ॥ ४३ ॥ प्रमाणमुभयोरत्र सहाध्यायी वसुनृपः । नारदः प्रतिपदे तन्न क्षोभ: सत्यभाषिणाम् ॥ ४४ ॥ रहः पर्वतमूचेऽम्बा गृहकर्मरताऽप्यहम् । अजास्त्रिवार्षिकं धान्यमित्यश्रौषं भवत्पितुः ॥ ४५ ॥ जिह्वाच्छेदं पणऽकार्षीयद्दत्तिदसाम्प्रतम् | अविमृश्य विधातारो भवन्ति विपदां पदम् ॥ ४६ ॥ अवदत्पर्वतोऽप्येवं कृतं तावदिदं मया । यथा तथा कृतस्याम्ब करणं न हि विद्यते ॥ ४७ ॥
(१) क ग च छ ड साक्षेपः।
(२) ख तदुरीचक्रे न ।