________________
योगशास्त्रे इषुस्खलनहेतुं स ज्ञातुं तत्र ययौ ततः । आकाशस्फटिकशिलामन्नासोत्पाणिना स्पृशन् ॥ २८ ॥ स दध्याविति मन्येऽस्यां संक्रान्तः परतश्चरन् । भूमिच्छायेव शीतांशौ ददृशे हरिणो मया ॥ २८ ॥ पाणिस्पर्श विना नेयं सर्वथाऽप्युपलक्ष्यते । अवश्यं तदसौ योग्या वसोर्वसुमतीपतेः ॥ ३० ॥ रहो व्यज्ञपयद्राने गत्वा तां मृगयुः शिलाम् । दृष्टो राजाऽपि जग्राह ददौ चास्मै महदनम् ॥ ३१ ॥ स तया घटयामास च्छन्नं स्वासनवेदिकाम् । तच्छिल्पिनोऽघातयच्च नात्मीयाः कस्यचिबृपाः ॥ ३२ ॥ तस्यां सिंहासनं वेदौ चेदीशस्य निवेशितम् । सत्यप्रभावादाकाशस्थितमित्यबुधज्जनः ॥ ३३ ॥ सत्याधि तुष्टाः सानिध्यमस्य कुर्वन्ति देवताः । एवमूर्जखिनी तस्य प्रसिद्धिानशे दिशः ॥ ३४ ॥ तया प्रसिद्ध्या राजानो भौतास्तस्य वशं गताः । सत्या वा यदि वा मिथ्या प्रसिद्धिर्जयिनी नृणाम् ॥ ३५ ॥ आगाच्च नारदोऽन्येद्युस्ततश्चैक्षिष्ट पर्वतम् । व्याख्यानयन्तमृग्वेदं शिष्याणां शेमुषौजुषाम् ॥ २६ ॥ अजैर्यष्टव्य मित्यस्मिन् मेषैरित्युपदेशकम् । बभाष नारदो भ्रातात्या किमिदमुच्यते ॥ ३७॥
..
.
(१) क ग छ ययुः।