________________
द्वितीयः प्रकाशः।
२८५ स्वर्ग यास्यत्यसौ तावदिति निश्चित्य सस्वजे। ' गुरुणा नारदः नेहात् साधु साध्विति भाषिणा ॥ १७ ॥ वसुपर्वतको पश्चादागत्यैवं शशंसतुः । निहतौ कुक्कुटौ तत्र यत्र कोऽपि न पश्यति ॥ १८ ॥ अपश्यतं युवामादावपश्यन् खेचरादयः । कथं हतौ कुकुटौ रे पापावित्यशपगुरुः ॥ १८ ॥ ततः खेदादुपाध्यायो दध्यौ विध्यातपाठधीः। मुधा मेऽध्यापनक्लेशो वसुपर्वतयोरभूत् ॥ २० ॥ गुरूपदेशो हि यथापात्रं परिणमेदिह । अधाम्भ: स्थानभेदेन मुक्तालवणतां व्रजेत् ॥ २१ ॥ प्रियः पर्वतकः पुत्रः पुत्रादप्यधिको वसुः । नरकं यास्यतस्तस्माइहवामेन किं मम ॥ २२ ॥ निर्वेदादित्युपाध्यायः प्रव्रज्यामग्रहीत्तदा । तत्पदं पर्वतोऽध्यास्त व्याख्याक्षणविचक्षणः ॥ २३ ॥ भूत्वा गुरोः प्रसादेन सर्वशास्त्रविशारदः । नारदः शारदाम्भोदशुद्धधीः खां भुवं ययौ ॥ २४ ॥ नृपचन्द्रोऽभिचन्द्रोऽपि जग्राह समये व्रतम् । ततश्चासीहसू राजा वासुदेवसमः श्रिया ॥ २५ ॥ सत्यवादीति स प्राप प्रसिद्धिं पृथिवीतले । तां प्रसिद्धिमपि त्रातुं सत्यमेव जगाद सः ॥ २६ ॥ अथैकदा मृगयुगा मृगाय मृगयाजुषा । चिक्षिपे विशिखो विन्ध्यनितम्बे सोऽन्तरा ऽस्खलत् ॥ २७ ॥