________________
२८४
योगशास्त्रे एषामेकतम: खगं गमिष्यत्यपरी पुनः । नरकं यास्यतस्तञ्चाश्रौषोत्क्षौरकदम्बकः ॥ ६ ॥ तच्छुत्वा चिन्तयामास खिन्नः क्षीरकदम्बकः । मय्यप्यध्यापक शिष्यौ यास्यतो नरकं हहा ॥ ७ ॥ एभ्यः को यास्यति स्वर्ग नरकं को च यास्यतः । जिज्ञासुरित्युपाध्यायस्तांस्त्रीन् युगपदाह्नत ॥ ८ ॥ यावपूर्ण समप्य॒षामेकैकं पिष्टकुक्कुटम् । स ऊचेऽमी तत्र वध्या यत्र कोऽपि न पश्यति ॥ ६ ॥ वसुपर्वतको तत्र गत्वा शून्यप्रदेशयोः । आत्मनीनां गतिमिव जघ्नतुः पिष्टकुक्कुटो ॥ १० ॥ महात्मा नारदस्तत्र व्रजित्वा नगराबहिः । स्थित्वा च विजने देशे दिश: प्रेक्ष्य व्यतर्कयत् ॥ ११ ॥ गुरुपादैरदस्तावदादिष्टं वत्स यत्त्वया । वध्योऽयं कुक्कुटस्तत्र यत्र कोऽपि न पश्यति ॥ १२ ॥ असो पश्यत्यहं पश्याम्यमी पश्यन्ति खेचरा: । लोकपालाश्च पश्यन्ति पश्यन्ति ज्ञानिनोऽपि च ॥ १३ ॥ नास्त्येव स्थानमपि तद्यत्र कोऽपि न पश्यति । तात्पर्य तगुरुगिरां न वध्यः खलु कुक्कुटः ॥ १४ ॥ गुरुपादा दयावन्तः सदा हिंसापराङ्मुखाः । अस्मत्प्रज्ञां परिज्ञातुमेतबियतमादिशन् ॥ १५ ॥ विमृश्यैवमहत्वैव कुक्कुटं स समाययो। कुक्कुटाहनने हेतुं गुरोयज्ञपयच्च तम् ॥ १६ ॥