________________
हितीयः प्रकाशः । नाऽस्मन्मन्त्रोऽमुना ज्ञात इति प्रकतिपूरुषैः ।। एहमप्रविशन्नेव बडा दः स गौरिव ॥ २६ ॥ अथ प्रकाशयंस्तेजो निजं राजा चिरन्तनः । प्रादुरासीत्तदानीं स निशात्यय इवार्यमा ॥ २७ ॥ सोऽहिः करण्डनिर्यात इव दूरं ज्वलन् क्रुधा । दत्तं खकुम्भमां नरककुम्भवामिव तदाऽक्षिपत् ॥ २८ ॥ अधस्तात्ताप्यमानायां कुम्भमां खानोऽन्तरा स्थिताः ।
दत्तं विदद्रुः परमाधार्मिका इव नारकम् ॥ २८ ॥ निरस्तभूपालभयोपरोधः श्रीकालिकाचार्य इवैवमुच्चैः । सत्यव्रतत्राणकतप्रतिज्ञो न जातु भाषेत मृषा मनीषी ॥३०॥
॥ इति कालिकाचार्यदत्तकथानकम् ॥ अस्ति चेदिषु विख्याता नाम्ना शक्तिमती पुरी। शुक्तिमत्याख्यया नद्या नर्मसख्येव शोभिता ॥ १ ॥ . पृथ्वीमुकुटकल्पायां तस्यां तेजोभिरगुतः । माणिक्य मिव पृथ्वीशोऽभिचन्द्रो नामतोऽभवत् ॥ २ ॥ . सूनुः सूनृतवातस्य वसुरित्यभिधानतः ।
अजायत महाबुद्धिः पाण्डोरिव युधिष्ठिरः ॥ ३ ॥ पाखें क्षीरकदम्बस्य गुरोः पर्वतकः सुतः । राजपुत्रो वसुच्छात्रो नारदश्चापठस्त्रयः ॥ ४ ॥ सौधोपरि शयानेषु तेषु पाठश्रमानिशि । चारणश्रमणौ व्योम्नि यान्तावित्यूचतुर्मिथः ॥ ५ ॥