________________
२८२
योगशास्त्रे
अथोचे कालिकार्योऽपि खकुम्भी पचनात्पुरः । तस्मिन्नेवागाकस्मात्ते मुखे विष्ठा प्रवेक्ष्यति ॥ १६ ॥ रोषाद् दत्ती जगादेदं तव मृत्युः कुतः कदा । न कुतोऽपि स्वकाले द्यां यास्यामीत्यवदन्मुनिः ॥ १७ ॥ अमुं निरुन्ध दुर्बुद्धिमिति दत्तेन रोषतः । आदिष्टैः कालिकाचार्यो रुरुधे दण्डपूरुषैः ॥ १८ ॥ अथ दत्तात् समुहिग्नाः सामन्ताः पापकर्मणः । आह्ववाद्यं नृपं तस्मै दत्तमर्पयितुं किल ॥ १८ ॥ दत्तोऽपि शङ्गितस्तस्थौ निलीनो निजवेश्मनि। . कण्ठोरवरवत्रस्तो निकुञ्ज इव कुञ्जरः ॥ २० ॥ स विस्मृतदिनो दैवादागते सप्तमे दिने । बहिनिर्गन्तुमार राजमार्गानरक्षयत् ॥ २१ ॥ तत्रैको मालिकः प्रातर्विशन् पुष्य करण्डवान् । चक्रे वेगातुरो विष्ठां भीतः पुष्पैः प्यधत्त च ॥ २२ ॥ इहाहनि हनिष्यामि पशुवन्मुनिपांसनम् । चिन्तयन्निति दत्तोऽपि निर्ययौ सादिभिर्वृतः ॥ २३ ॥ एकेन वलाताऽश्वेन विष्ठोक्षिप्ता खुरेण सा । दत्तस्य प्राविशच्चास्ये नासत्या 'यमिनां गिरः ॥ २४ ॥ शिलास्फालितवत्सद्यः श्लथाङ्गो विमनास्ततः । स सामन्ताननाच्य ववले स्वग्रहं प्रति ॥ २५ ॥
(१) क ख ग छ यतिनाम् ।