________________
द्वितीयः प्रकाशः । . २८१ विभेद्य प्रकतोरष राजानं निरवासयत् । पापात्मानः कपोताच खायोच्छेददायिनः ॥ ५ ॥ तस्य राज्ञो दुरात्माऽसौ राज्ये खयमुपाविशत् । क्षुद्रः पादान्तदानेऽपि कामत्युच्छीर्षकावधि ॥ ६ ॥ पशुहिंसोत्कटान् यज्ञानज्ञो धर्मधिया व्यधात् । धूमैर्मलिनयन् विखं समूर्त्तरिख पातकः ॥ ७ ॥ विहरन् कालिकार्याख्यश्चाचार्यस्तस्य मातुलः ।। तत्राजगाम भगवानङ्गवानिव संयम: ॥ ८॥ तत्समीपमनापित्सुर्दत्तो मिथ्यात्वमोहितः । अत्यर्थं प्रार्थितो मात्रा मातुलाभ्यर्णमाययौ ॥ ८ ॥ मत्तोन्मत्तप्रमत्ताभी दत्तोऽपृच्छत्तमुटम् । . आचार्य यदि जानासि यज्ञानां ब्रूहि किं फलम् ॥ १० ॥ उवाच कालिकाचार्यो धर्म पृच्छसि तच्छृण । तत्परस्य न कर्तव्यं यद्यविप्रियमात्मनः ॥ ११ ॥ ननु यत्रफलं पृच्छामीति दत्तोदिते पुनः । सूरिरूचे न हिंसादि श्रेयसे किन्तु पाप्मने ॥ १२ ॥ पुनस्तदेव साचे पृष्टो दत्तेन दुर्धिया। ससौष्ठवमुवाचार्यो यज्ञानां बरकः फलम् ॥ १३ ॥ दत्तः क्रुद्धोऽभ्यधादेवमिह कः प्रत्ययो वद । आर्योऽप्यूचे खकुम्भयां त्वं पक्ष्यसे ससमेऽहनि ॥ १४ ॥ दत्तः कोपादुदस्तधूररुणोक्कतलोचनः । भूताविष्ट इवोवाच प्रत्ययोऽत्रापि को ननु ॥ १५ ॥