________________
योगशास्त्र आमुभिक मृषावादस्य फलमाहनिगोदेष्वथ तिर्यक्षु तथा नरकवासिषु ।
उत्पद्यन्ते मृषावादप्रसादेन शरीरिणः ॥ ५६ ॥ निगोदा अनन्तकायिका जीवास्तेषु, तिर्यक्षु गोबलीवर्दन्यायेन शेषतिर्यग्योनिषु, नरकवासिषु नैरयिकेषु ॥ ५८ ॥
इदानीं मृषावादपरिहारे अन्वयव्यतिरेकाभ्यां
कालिकाचार्य वसुराजौ दृष्टान्तावाहब्रूयाभियोपरोधादा नासत्यं कालिकार्यवत् । . यस्तु ब्रूते स नरकं प्रयाति वसुराजवत् ॥ ६० ॥ भिया मरणादिभयेन, उपरोधाद्दाक्षिण्यादसत्यं न ब्रूयात् । यस्तु ब्रूते भियोपरोधादा इत्यत्रापि संबन्धनीयं, दृष्टान्तौ संप्रदायगम्यो।
स चायम् । अस्ति भूरमणीमौलिमणिस्तुरमणी पुरी। यथार्थनामा तत्रासीज्जितशत्रुमहीपतिः ॥ १ ॥ रुद्रेति नामधेयेन ब्राह्मणी तत्र विश्रुता । दत्त इत्यभिधानेन तस्याः पुत्रो बभूव च ॥ २ ॥ दत्तो नितान्तदुर्दान्तो द्यूतमद्यप्रियः सदा । सेवितुं तं महीपालं प्रवृत्तो वर्तनेच्छया ॥ ३ ॥ राज्ञा प्रधानीचक्रेऽसौ छायावत्यारिपार्खकः । आरोहायोपसर्पन्त्या विषवल्लेरपि द्रुमः ॥ ४ ॥