________________
द्वितीयः प्रकाशः ।
देशनान्ते महावीरं नत्वा कुष्ठो समुत्थितः । रुरुधे श्रेणिकभटैः किरातैरिव शूकरः ॥ १४ ॥ स तेषां पश्यतामेव दिव्यरूपधरः क्षणात् । उत्पपाताम्बरे कुर्वन्रक्क बिम्बविडम्बनाम् ॥ १५ ॥ पत्तिभिः कथिते राज्ञा क एष इति विस्मयात् । विज्ञप्तो भगवानस्मै देवोऽसावित्य चोकथत् ॥ १६ ॥ पुनर्विज्ञपयामास सर्वज्ञमिति भूपतिः । देव: कथमभूदेष कुष्ठी वा केन हेतुना ॥ १७ ॥ अथोचे भगवानेवमस्ति वत्सेषु विश्रुता । कौशाम्बी नाम पूस्तस्यां शतानोकोऽभवनृपः ॥ १८ ॥ तस्यां नगर्य्यामेकोऽभून्रामतः सेडुको द्दिजः । सौमा सदा दरिद्राणां मूर्खाणामवंधिः परः ॥ १८ ॥ गर्भिण्याऽभाणि सोऽन्येद्युर्ब्राह्मण्या सूतिकर्मणे । भट्टानय घृतं मह्यं सह्या नह्यन्यथा व्यथा ॥ २० ॥ सोऽप्यूचे तां प्रिये नास्ति मम कुत्रापि कौशलम् । येन किञ्चिल कापि कलाग्राह्या यदीश्वराः ॥ २१ ॥ उवाच सा च तं भट्टं गच्छ सेवख पार्थिवम् । पृथिव्यां पार्थिवादन्यो न कश्चित्कल्पपादपः ॥ २२ ॥ तथेति प्रतिपद्यासौ नृपं पुष्पफलादिना । प्रवृत्तः सेवितुं विप्रो रत्नेच्छुरिव सागरम् ॥ २३॥
(१)
ख विज्ञापयामास ।
२६३