________________
• योगशास्त्रे
कदाचिदथ कौशाम्बी चम्पेशे नामितैर्बलैः । घनतुनेव मेधैौररुध्यत समन्ततः ॥ २४ ॥ सानीकोऽपि शतानीको मध्येकौगाम्बि तस्थिवान् । प्रतीक्षमाण: समयमन्तर्बिलमिवोरगः ॥ २५ ॥ चम्पाधिपोऽपि कालेन बहुना सनसैनिकः। प्राषि स्वाश्रयं यातुं प्रवृत्तो राजहंसवत् ॥ २६ ॥ तदा पुष्पार्थमुद्याने गत: सेडुक ऐक्षत। तं क्षीणसैन्यं प्रत्यूषे निष्पभोडुमिवोडुपम् ॥ २७ ॥ तूर्णमेत्य शतानीकं व्यजिज्ञपदसाविदम् । याति क्षीणबलस्तेरिर्भग्नदंष्ट्र इवोरगः ॥ २८ ॥ यद्यद्योत्तिष्ठसे तस्मै तदा ग्राह्यः सुखेन सः । बलीयानपि खिन्नः सबखिन्नेनाभिभूयते ॥ २८ ॥ तहचः साधु मन्वानो राजा सर्वाभिसारतः । निःससार शरासारसारनासौरदारुण: ॥ ३० ॥ ततः पश्चादपश्यन्तो नेशुश्चम्पेशसैनिकाः । अचिन्तिततडित्पाते को वीक्षितुमपि क्षमः ॥ ३१ ॥ चम्माधिपतिरेकाङ्गः कान्दिशीकः पलायितः । तस्य हस्त्यश्वकोशादि कौशाम्बीपतिरग्रहीत् ॥ ३२ ॥ हृष्टः प्रविष्टः कौशाम्बौं शतानीको महामनाः । उवाच सेडुकं विप्रं ब्रूहि तुभ्यं ददामि किम् ॥ ३३ ॥ विप्रस्तमूचे याचिष्थे पृष्ट्वा निजकुटुम्बिनीम् । पर्यालोचपदं नान्यो ग्यहिणां गृहिणीं विना ॥ ३४ ॥