________________
द्वितीयः प्रकाशः ।
२६५
भट्टः प्रहृष्टो भटिन्ये तदशेष शशंस स: । चेतमा चिन्तयामास सा चैवं दुदिशालिनी ॥ ३५ ॥ यद्यमुना ग्राहयिष्ये नृपाद्रामादिकं तदा । करिष्यत्यपरान्दारान्मदाय विभव: खलु ॥ ३६ ॥ दिनं प्रत्येक पालोय स्तथाग्रामनभोजनम् । दीनारो दक्षिणायां च याय इत्यन्वशात्पतिम् ॥ ३७ ॥ ययाचे तत्तथा विप्रो राजाऽदात्तद्ददविदम् । करतोऽब्धिमपि प्राप्य ग्रहात्यात्मोचितं पयः ॥ ३८ ॥ प्रत्यहं तत्तथा लेभे प्राप्य सम्भावनां च सः । पुंसां राजप्रसादो हि वितनोति महाघताम् ॥ ३८ ॥ राजमान्योऽयमित्येष नित्यं लोकैद्यमन्त्रात । यस्य प्रसनो नृपतिस्तस्य कः स्यान्न सेवकः ॥ ४० ॥ अग्ने भुक्तं चालयित्वा बुभुजेऽने कशोऽप्यसो । प्रत्यहं दक्षिणालोभाडिग्धिग्लोभो दिजन्मनाम् ॥ ४१ ॥ उपाचीयत विप्रोऽसौ विविधैर्दक्षिणाधनैः । प्रासरत्पत्रपौत्रैश्च पादैरिव वटद्रुमः ॥ ४२ ॥ स तु नित्यमजीर्णाववमनादूईगैरसैः । श्रामरभूषितत्वगवस्थ इव लाक्षया ॥ ४३ ॥ कुष्ठी क्रमेण सञ्जज्ञे शौर्णघ्राणांहिपाणिकः । तथैवामुक्त राजाग्रे सोऽटतो हव्यवाडिव ॥ ४४ ॥
(१) स ग ड आलोपः।