________________
योगशास्त्रे एकदा मन्विभिभूपो विज्ञप्तो देव कुष्ठासौ । सञ्चरिष्णुः कुष्ठरोगो नास्य योग्यमिहाशनम् ॥ ४५ ॥ सन्त्यस्य नीरुजः पुत्रास्तेभ्यः कोऽप्यत्र भोज्यताम् । 'यङ्गितप्रतिमायां हि स्थाप्यत प्रतिमान्तरम् ॥ ४६ ॥ एवमस्त्विति राज्ञोक्तेऽमात्यैर्विप्रस्तथोदितः। स्वस्थान स्थापयत्पुत्रं गृहे तस्थौ स्वयं पुनः ॥ ४७॥ मधुमण्डकवद्क्षुद्रमक्षिकाजालमालित: । पुत्रगुहादपि बहिः कुटीरे क्षेपि स दिजः ॥ ४८ ॥ बहिःस्थितस्य तस्याज्ञां पुत्वा अपि न चक्रिरे । दारुपात्रे ददुः किन्तु शुनकस्येव भोजनम् ॥ ४ ॥ जुगुप्समाना वध्वोऽपि तं भोजयितुमाययुः ।। तिष्ठिवुर्वलितग्रीवं मोटनोत्पुटनासिकाः ॥ ५० ॥ अथ सोऽचिन्तयविप्रः श्रीमन्तोऽमी मया कृताः । एभिर्मुक्तोऽस्मानादृत्य तीर्णाम्भोभिस्तरण्डवत् ॥ ५१ ॥ तोषयन्ति न वाचाऽपि रोषयन्त्येव माममी। कुष्ठी रुष्टो न सन्तुष्टोऽभव्य इत्यनुलापिनः ॥ ५२ ॥ जुगुप्सन्ते यथैते मां जुगुप्साः स्युरमी अपि । यथा तथा करिष्यामौत्वालोयावोचदात्मजान् ॥ ५३ ॥ उद्विग्नो जीवितस्याहं कुलाचारस्त्वसौ सुताः । मुमूर्षुभिः कुटुम्बस्य देयो मोक्षित: पशु: ॥ ५४ ॥
१)
ख ग ड न्यडित-।