________________
२१५
द्वितीयः प्रकाशः ।
२१५ ज्ञात्वा मातङ्गपुत्राभ्यां स दूरणापसारितः । सैवास्मै दक्षिणा दत्ता प्राणरक्षणलक्षणा ॥ २७ ॥ ततो नि:मृत्य नमुचिर्गतवान् हस्तिनापुर । चक्रे सनत्कुमारेण सचिवश्चक्रिणा निजः ॥ २८ ॥ इतश्च चित्रसम्भूतौ बभतुर्नवयौवनौ । कुतोऽपि हेतोरायातौ पृथिव्यामाश्विनाविव ॥ २८ ॥ तो स्वादु जगतुर्गीतं हाहाइड्पहासिनौ। . . वादयामासतुरूणामतितुम्बुरुनारदौ ॥ ३० ॥ गीतप्रबन्धानुगतैः सुव्यक्तैः सप्तभिः स्वरैः। तयोर्वादयतोर्वेणुं किं करन्ति स्म किनराः ॥ ३१ ॥ मुरज धौरघोषं तौ वादयन्तौ च चक्रतुः । गृहौतमुरकं कालातोद्यकष्णविडम्बनाम् ॥ ३२ ॥ शिवः शिवोर्वशौरम्भामुनकेशीतिलोत्तमाः । यवाव्यं न विदाञ्चक्रुस्तौ तदप्यभिनिन्यतः ॥ ३३ ॥ सर्वगान्धर्वसर्वस्वमपूर्व विखकाम्प्रणम् । प्रकाशयद्भामताभ्यां न जड़े कस्य मानसम् ॥ ३४ ॥ तस्यां पुरि प्रववृत्ते कदाचिन्मदनोत्सवः । निरीयुः पौरचर्चय॑स्तत्र संगीतपेशला: ॥ ३५ ॥ चर्चरी निर्ययौ तत्र चित्रसम्भूतयोरपि । जग्मुस्तत्रैव तहौताक्लष्टा: पौरा मृगा इव ॥ २६ ॥ राज्ञो व्यज्ञपि केनापि मातङ्गाभ्यां पुरीजनः । ..... गीतनावष्य सर्वोऽयमात्मवन्मलिनः कृतः ॥ ३७॥