________________
योगशास्त्रे प्रोत्या सह चरन्तौ तौ मृगौ मृगयुणा हतौ।। बाणेनैकेनैककालं कालधर्ममुपैयतः ॥ १६ ॥ ततोऽपि मृतगङ्गायां राजहंस्या उभावपि । अजायेतां सुतौ युग्मरूपिणौ पूर्वजन्मवत् ॥ १७ ॥ क्रीडन्तावेकदेशस्थी कृत्वा जालेन जालिकः। . ग्रीवां भंवा ऽवधौडम्भहीनानां हौदृशौ गतिः ॥ १८ ॥ वाराणस्यां ततोऽभूतां भूतदत्ताभिधस्य तौ। महाधनसमृद्धस्य मातङ्गाधिपतेः सुतौ ॥ १८ ॥ चित्रसम्भूतनामानौ तौ मिथः मेहशालिनौ।। न कदापि व्ययुज्येतां सम्बद्धौ नखमांसवत् ॥ २० ॥ वाराणस्यां तदा चाभूच्छङ्ग इत्यवनीपतिः । प्रासौच्च सचिवस्तस्य नमुचिर्नाम विश्रुतः ॥ २१ ॥ अपरेयुः सोऽपराधे महीयसि महीभुजा। अर्पितो भूतदत्तस्य प्रच्छन्त्रवधहेतवे ॥ २२ ॥ तेनोचे नमुचिश्छदं त्वां रक्षामि निजामवत् । पाठयस्यात्मजी मे त्वं यदि भूमिगृहस्थितः ॥ २३ ॥ प्रतिपन्नं नमुचिना तमातङ्गपतेर्वचः। : जनो हि जीवितव्यार्थी तबास्ति न करोति यत् ॥ २४ ॥ विचित्राचित्रसम्भूतौ स तथाऽध्यापयत् कलाः । . रेमेऽनुरक्तया साई मातङ्गपतिभार्यया ॥ २५ ॥ ज्ञात्वा तद्भूतदत्तेनारेभे मारयितुं स तु । .. सहते कः स्वदारेषु पारदारिकविप्लवम् ॥ २६ ॥